Sukta 1.53
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः । सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः । सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
sám indra rāyā́ sám iṣā́ rabhémahi sám vājébhiḥ puru-candrāír abhidyúbhiḥ | sám devyā́ prámatyā vīrá-śuṣmayā gó-agrayā́śvāvatyā rabhémahi ||
O Indra, together with spiritual riches (rāyā) and with the divine impulsion (iṣā), may we take hold; together with plenitudes of force (vāja), with many-shining powers of light, together with the goddessly right-intelligence (pramatī) and heroic ardour, with the foremost rays (go) and the swift energies (aśva), may we attain.
सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे॑भिः । पु॒रु॒ऽच॒न्द्रैः । अ॒भिद्यु॑ऽभिः । सम् । दे॒व्या । प्रऽम॑त्या । वी॒रऽशु॑ष्मया । गोऽअ॑ग्रया । अश्व॑ऽवत्या । र॒भे॒म॒हि॒ ॥सम् । इन्द्र । राया । सम् । इषा । रभेमहि । सम् । वाजेभिः । पुरुचन्द्रैः । अभिद्युभिः । सम् । देव्या । प्रमत्या । वीरशुष्मया । गोअग्रया । अश्ववत्या । रभेमहि ॥sam | indra | rāyā | sam | iṣā | rabhemahi | sam | vājebhiḥ | puru-candraiḥ | abhidyu-bhiḥ | sam | devyā | pra-matyā | vīra-śuṣmayā | go--agrayā | aśva-vatyā | rabhemahi