Sukta 1.53
एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना । इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥
ए॒भिर्द्युभि॑: सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षस॒: समि॒षा र॑भेमहि ॥
ebhír dyúbhiḥ sumánā ebhír índubhir nirundhānáḥ ámatiṃ góbhir aśvínā | índreṇa dásyuṃ daráyanta índubhir yutádveṣasaḥ sám iṣā́ rabhémahi ||
With these luminous days (powers of light) and with these Soma-drops, holding back the crooked will, and with the radiant rays (cows) and swift energies (horses), we would—by Indra—split the Dasyu (the obstructing darkness) with the Soma-forces; united against hatred, may we attain together the divine impulsion (iṣā).
ए॒भिः । द्युभिः॑ । सु॒ऽमनाः॑ । ए॒भिः । इन्दु॑ऽभिः । निः॒ऽउ॒न्धा॒नः । अम॑तिम् । गोभिः॑ । अ॒श्विना॑ । इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॑ऽभिः । यु॒तऽद्वे॑षसः । सम् इ॒षा । र॒भे॒म॒हि॒ ॥एभिः । द्युभिः । सुमनाः । एभिः । इन्दुभिः । निःउन्धानः । अमतिम् । गोभिः । अश्विना । इन्द्रेण । दस्युम् । दरयन्तः । इन्दुभिः । युतद्वेषसः । सम् इषा । रभेमहि ॥ebhiḥ | dyubhiḥ | su-manāḥ | ebhiḥ | indu-bhiḥ | niḥ-undhānaḥ | amatim | gobhiḥ | aśvinā | indreṇa | dasyum | darayantaḥ | indu-bhiḥ | yuta-dveṣasaḥ | sam iṣā | rabhemahi