Sukta 1.53
शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु । अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ । अत॑: सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
śacī́va indra puru-kṛd dyumat-tama tavéd idám abhítaś cekite vásu | atáḥ saṃgṛ́bhyābhibhūta ā́ bhara mā́ tvā́yataḥ jaritúḥ kā́mam ūnayīḥ ||
O Indra of effective power, doer of many works, most luminous: this treasure is indeed seen everywhere as yours. Therefore, gather it up as the overcomer and bring it here; do not diminish the desire of the singer who reaches toward you—fulfil it by your bringing.
शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् । अ॒भितः॑ । चे॒कि॒ते॒ । वसु॑ । अतः॑ । स॒म्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒ऽय॒तः । ज॒रि॒तुः । काम॑म् । ऊ॒न॒यीः॒ ॥शचीवः । इन्द्र । पुरुकृत् । द्युमत्तम । तव । इत् । इदम् । अभितः । चेकिते । वसु । अतः । सम्गृभ्य । अभिभूते । आ । भर । मा । त्वायतः । जरितुः । कामम् । ऊनयीः ॥śacī-vaḥ | indra | puru-kṛt | dyumat-tama | tava | it | idam | abhitaḥ | cekite | vasu | ataḥ | sam-gṛbhya | abhi-bhūte | ā | bhara | mā | tvāyataḥ | jarituḥ | kāmam | ūnayīḥ