Sukta 1.53
य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम । त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
य उ॒दृची॑न्द्र दे॒वगो॑पा॒: सखा॑यस्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
yá ut-ṛ́cīndra devá-gopā́ḥ sákhāyas te śivátamā́ ásāma | tvā́ṃ stoṣāma tváyā su-vī́rā drā́ghīya áyuḥ pratáraṃ dádhānāḥ ||
We who rise upward, O Indra—guarded by the gods—may be your most benevolent friends. We will praise you; with you may we be rich in heroic powers, holding a longer life and a more victorious forward movement.
ये । उ॒त्ऽऋचि॑ । इ॒न्द्र॒ । दे॒वऽगो॑पाः । सखा॑यः । ते॒ । शि॒वऽत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥ये । उत्ऋचि । इन्द्र । देवगोपाः । सखायः । ते । शिवतमाः । असाम । त्वाम् । स्तोषाम । त्वया । सुवीराः । द्राघीयः । आयुः । प्रतरम् । दधानाः ॥ye | ut-ṛci | indra | deva-gopāḥ | sakhāyaḥ | te | śiva-tamāḥ | asāma | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ