Sukta 1.52
बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः । यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः । यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तय॒: स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
bṛhát svaś-candrám áma-vad yád ukthyám ákṛṇvata bhiyásā róhaṇaṃ diváḥ | yán mā́nuṣa-pradhanā índram ūtáyaḥ svàr nṛ-ṣā́co marúto ’madann ánu ||
They made the hymn vast and bright, full of force; through awe they fashioned the ascent to heaven. When in the human battles the Maruts, companions of men, rejoiced following Indra—helpers of the luminous world.
बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः । यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥बृहत् । स्वचन्द्रम् । अमवत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दिवः । यत् । मानुषप्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृसाचः । मरुतः । अमदन् । अनु ॥bṛhat | sva-candram | ama-vat | yat | ukthyam | akṛṇvata | bhiyasā | rohaṇam | di vaḥ | yat | mānuṣa-pradhanāḥ | indram | ūtayaḥ | svaḥ | nṛ-ṣācaḥ | marutaḥ | amadan | anu