Sukta 1.52
जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः । अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥
ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥
jaghanvā́ṃ u háribhiḥ sambhṛta-krátav índra vṛtráṃ mánuṣe gātu-yánn ápaḥ | áyacchathā bāhvór vájram āyásam ádhārayo divyā́ sū́ryaṃ dṛśé ||
Slaying Vṛtra with thy tawny steeds, O Indra of gathered will, desiring a path for man thou didst set free the waters. Thou didst grasp in thy arms the iron thunderbolt; thou didst uphold in heaven the divine Sun for vision.
ज॒घ॒न्वान् । ऊँ॒ इति॑ । हरि॑ऽभिः । स॒म्भृ॒त॒क्र॒तो॒ इति॑ सम्भृतऽक्रतो । इन्द्र॑ । वृ॒त्रम् । मनु॑षे । गा॒तु॒ऽयन् । अ॒पः । अय॑च्छथाः । बा॒ह्वोः । वज्र॑म् । आ॒य॒सम् । अधा॑रयः । दि॒वि । आ । सूर्य॑म् । दृ॒शे ॥जघन्वान् । ऊँ इति । हरिभिः । सम्भृतक्रतो इति सम्भृतक्रतो । इन्द्र । वृत्रम् । मनुषे । गातुयन् । अपः । अयच्छथाः । बाह्वोः । वज्रम् । आयसम् । अधारयः । दिवि । आ । सूर्यम् । दृशे ॥jaghanvān | oṃ iti | hari-bhiḥ | sambhṛtakrato itisambhṛta-krato | indra | vṛtram | manuṣe | gātu-yan | apaḥ | ayacchathāḥ | bāhvoḥ | vajram | āyasam | adhārayaḥ | divi | ā | sūryam | dṛśe