Sukta 1.52
द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते । वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥
द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑: स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते । वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिर॑: ॥
dyáuś cid asyā́ma-vā́n áheḥ svanā́d ayoyavīd bhiyásā vájra indra te | vṛtrásya yád badbadhānásya rodasī máde sutásya śávasā́bhinac chíraḥ ||
Even heaven, strong, recoiled in fear at the roar of that serpent; so terrible was thy thunderbolt, O Indra. When the two worlds were being bound by Vṛtra, in the ecstasy of the pressed Soma thou didst cleave his head with force.
द्यौः । चि॒त् । अ॒स्य॒ । अम॑ऽवान् । अहेः॑ । स्व॒नात् । अयो॑यवीत् । भि॒यसा॑ । वज्रः॑ । इ॒न्द्र॒ । ते॒ । वृ॒त्रस्य॑ । यत् । ब॒द्ब॒धा॒नस्य॑ । रो॒द॒सी॒ इति॑ । मदे॑ । सु॒तस्य॑ । शव॑सा । अभि॑नत् । शिरः॑ ॥द्यौः । चित् । अस्य । अमवान् । अहेः । स्वनात् । अयोयवीत् । भियसा । वज्रः । इन्द्र । ते । वृत्रस्य । यत् । बद्बधानस्य । रोदसी इति । मदे । सुतस्य । शवसा । अभिनत् । शिरः ॥dyauḥ | cit | asya | ama-vān | aheḥ | svanāt | ayoyavīt | bhiyasā | vajraḥ | indra | te | vṛtrasya | yat | badbadhānasya | rodasī iti | made | sutasya | śavasā | abhinat | śiraḥ