Sukta 1.52
ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना । त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥
hradaṃ na hí tvā ny-ṛṣanty ū́rmayo bráhmāṇīndra táva yā́ni várdhanā | tváṣṭā citté yújyaṃ vāvṛdhe śávaḥ tatákṣa vájram abhíbhūty-ojasam ||
As waves cannot shake the deep heart-lake, so the mantras of affirmation that are thine, O Indra, cannot be overthrown; they increase thee. Even Tvaṣṭṛ has strengthened for thee the fitting force, and has fashioned the thunderbolt—powerful with conquering might.
ह्र॒दम् । न । हि । त्वा॒ । नि॒ऽऋ॒षन्ति॑ । ऊ॒र्मयः॑ । ब्रह्मा॑णि । इ॒न्द्र॒ । तव॑ । यानि॑ । वर्ध॑ना । त्वष्टा॑ । चि॒त् । ते॒ । युज्य॑म् । व॒वृ॒धे॒ । शवः॑ । त॒तक्ष॑ । वज्र॑म् । अ॒भिभू॑तिऽओजसम् ॥ह्रदम् । न । हि । त्वा । निऋषन्ति । ऊर्मयः । ब्रह्माणि । इन्द्र । तव । यानि । वर्धना । त्वष्टा । चित् । ते । युज्यम् । ववृधे । शवः । ततक्ष । वज्रम् । अभिभूतिओजसम् ॥hradam | na | hi | tvā | ni-ṛṣanti | ūrmayaḥ | brahmāṇi | indra | tava | yāni | vardhanā | tvaṣṭā | cit | te | yujyam | vavṛdhe | śavaḥ | tatakṣa | vajram | abhibhūti--ojasam