Sukta 1.52
परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् । वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् । वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥
parī́ṃ ghṛṇā́ cárati titviṣé śávo ’pó vṛtvī́ rájasaḥ budhnám ā́śayat | vṛtrásya yát praváṇe duḥgṛ́bhiśvano nijaghántha hánvor índra tanyatúm ||
Around him moves the burning splendour; his strength flashes. Having encompassed the waters, he laid them down at the foundation of the world-space. When, in the slope of Vṛtra, amid harsh clashing, thou didst strike down the thunder from his jaws, O Indra, thou madest the obstruction fall.
परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् । वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥परि । ईम् । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः । बुध्नम् । आ । अशयत् । वृत्रस्य । यत् । प्रवणे । दुःगृभिश्वनः । निजघन्थ । हन्वोः । इन्द्र । तन्यतुम् ॥pari | īm | ghṛṇā | carati | titviṣe | śavaḥ | apaḥ | vṛtvī | rajasaḥ | budhnam | ā | aśayat | vṛtrasya | yat | pravaṇe | duḥ-gṛbhiśvanaḥ | ni-jaghantha | hanvoḥ | indra | tanyatum