Sukta 1.52
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः । इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः ॥
अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तय॑: । इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥
abhí svavṛ́ṣṭiṃ máde asya yúdhyato raghvī́r iva praváṇe sasrur ūtáyaḥ | índro yád vajrī́ dhṛṣámāṇo ándhasā bhínad válasya paridhī́ṃr iva tritáḥ ||
Towards his own outpouring, as he battles in ecstasy, the succours ran like swift streams down a slope. When Indra, the wielder of the thunderbolt, daring in the Soma-delight, split the enclosures of Vala as one breaks the rims—then the hidden plenitudes were opened.
अ॒भि । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । र॒घ्वीःऽइ॑व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः॑ । इन्द्रः॑ । यत् । व॒ज्री । धृ॒षमा॑णः॑ । अन्ध॑सा । भि॒नत् । व॒लस्य॑ । प॒रि॒धीन्ऽइ॑व । त्रि॒तः ॥अभि । स्ववृष्टिम् । मदे । अस्य । युध्यतः । रघ्वीःइव । प्रवणे । सस्रुः । ऊतयः । इन्द्रः । यत् । वज्री । धृषमाणः । अन्धसा । भिनत् । वलस्य । परिधीन्इव । त्रितः ॥abhi | sva-vṛṣtim | made | asya | yudhyataḥ | raghvīḥ-iva | pravaṇe | sasruḥ | ūtayaḥ | indraḥ | yat | vajrī | dhṛṣamāṇaḥ | andhasā | bhinat | valasya | paridhīn-iva | tritaḥ