Sukta 1.52
आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः । तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥
आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑: स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒: शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥
ā́ yáṃ pṛṇánti diví sadmábarhiṣaḥ samudráṃ ná subhvàḥ svā́ abhíṣṭayaḥ | táṃ vṛtrahátye ánu tasthur ūtáyaḥ śúṣmā índram avā́tā ahrútapsavaḥ ||
Him whom the dwellers on the divine seat fill full in heaven—like the ocean—by their own swift-shining fulfillments and desires; him, in the slaying of Vṛtra, the helps followed after—powers of force around Indra, unwearied in their ardour.
आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः । तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥आ । यम् । पृणन्ति । दिवि । सद्मबर्हिषः । समुद्रम् । न । सुभ्वः । स्वाः । अभिष्टयः । तम् । वृत्रहत्ये । अनु । तस्थुः । ऊतयः । शुष्माः । इन्द्रम् । अवाताः । अह्रुतप्सवः ॥ā | yam | pṛṇanti | divi | sadma-barhiṣaḥ | samudram | na | su-bhvaḥ | svāḥ | abhiṣṭayaḥ | tam | vṛtra-hatye | anu | tasthuḥ | ūtayaḥ | śuṣmāḥ | indram | avātāḥ | ahruta-psavaḥ