Sukta 1.52
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः । इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑: । इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥
sá hí dvaró dvaríṣu vavrá ū́dhani candrábudhno mádavṛddho manīṣíbhīḥ | índraṃ tám ahve svapasyáyā dhiyā́ maṃhíṣṭharātiṃ sá hí paprír ándhasaḥ ||
For he is the opener of the doors; in the doorways he is the covering that holds the treasure in the udder; moon-based, increased by ecstasy through the sages’ thoughts. That Indra I call with a will of right work and a luminous intelligence—him of the most bountiful giving, for he is filled full of the Soma-delight.
सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ । इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥सः । हि । द्वरः । द्वरिषु । वव्रः । ऊधनि । चन्द्रबुध्नः । मदवृद्धः । मनीषिभिः । इन्द्रम् । तम् । अह्वे । सुअपस्यया । धिया । मंहिष्ठरातिम् । सः । हि । पप्रिः । अन्धसः ॥saḥ | hi | dvaraḥ | dvariṣu | vavraḥ | ūdhani | candra-budhnaḥ | mada-vṛddhaḥ | manīṣi-bhiḥ | indram | tam | ahve | su-apasyayā | dhiyā | maṃhiṣṭha-rātim | saḥ | hi | papriḥ | andhasaḥ