Sukta 1.52
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे । इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे । इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥
sá párvato ná dharuṇéṣv ácyutaḥ sahásramūtis táviṣīṣu vāvṛdhe | índro yád vṛtrám ávadhīn nadīvṛ́tam ubjánn arṇā́ṃsi járhṛṣāṇo ándhasā ||
He stands like a mountain, unshaken in his foundations; the thousand-aided grows in his mights. When Indra slew Vṛtra who held back the rivers, he pressed out the flood-waters, exulting in the Soma-delight.
सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः॑ । तवि॑षीषु । व॒वृ॒धे॒ । इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥सः । पर्वतः । न । धरुणेषु । अच्युतः । सहस्रम्ऊतिः । तविषीषु । ववृधे । इन्द्रः । यत् । वृत्रम् । अवधीत् । नदीवृतम् । उब्जन् । अर्णांसि । जर्हृषाणः । अन्धसा ॥saḥ | parvataḥ | na | dharuṇeṣu | acyutaḥ | sahasram-ūtiḥ | taviṣīṣu | vavṛdhe | indraḥ | yat | vṛtram | avadhīt | nadī-vṛtam | ubjan | arṇāṃsi | jarhṛṣāṇaḥ | andhasā