Sukta 1.52
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते । अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥
त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑: सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥
tyáṃ su meṣáṃ mahayā svarvídaṃ śatáṃ yásya subhvàḥ sākám ī́rate | átyaṃ ná vā́jaṃ havanasyádaṃ rátham índraṃ vavṛtyā́m aváse suvṛ́ktibhiḥ ||
Him, the impelling ram of force, I magnify—the finder of the luminous world—of whom the swift-shining powers rise together in a hundredfold movement. Like a steed of plenitude, like a chariot that sits at the call, may we turn Indra towards us for help by well-fashioned utterances.
त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते । अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यदम् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥त्यम् । सु । मेषम् । महय । स्वःविदम् । शतम् । यस्य । सुभ्वः । साकम् । ईरते । अत्यम् । न । वाजम् । हवनस्यदम् । रथम् । आ । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिभिः ॥tyam | su | meṣam | mahaya | svaḥ-vidam | śatam | yasya | su-bhvaḥ | sākam | īrate | atyam | na | vājam | havana-syadam | ratham | ā | indram | vavṛtyām | avase | suvṛkti-bhiḥ