Sukta 1.52
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः । नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
ná yásya dyā́vāpṛthivī́ ánu vyáco ná síndhavo rájasaḥ ántam ā́naśuḥ | nótá sva-vṛ́ṣṭiṃ máde asyá yúdhyata éko anyác cakṛṣe víśvam ā́nuṣak ||
Whose wideness neither Heaven-and-Earth can follow, nor the rivers reach the end of his mid-space. Nor in his rapture of battle can one match his own rain of power. Alone he has made the whole world to move in the human order.
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । व्यचः॑ । न । सिन्ध॑वः । रज॑सः । अन्त॑म् । आ॒न॒शुः । न । उ॒त । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । एकः॑ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व॑म् । आ॒नु॒षक् ॥न । यस्य । द्यावापृथिवी इति । अनु । व्यचः । न । सिन्धवः । रजसः । अन्तम् । आनशुः । न । उत । स्ववृष्टिम् । मदे । अस्य । युध्यतः । एकः । अन्यत् । चकृषे । विश्वम् । आनुषक् ॥na | yasya | dyāvāpṛthivī iti | anu | vyacaḥ | na | sindhavaḥ | rajasaḥ | antam | ānaśuḥ | na | uta | sva-vṛṣṭim | made | asya | yudhyataḥ | ekaḥ | anyat | cakṛṣe | viśvam | ānuṣak