Sukta 1.52
त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः । विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥
त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः । विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
tváṃ bhúvaḥ prati-mā́naṃ pṛthivyā́ ṛṣvá-vīrasya bṛhatáḥ pátir bhūḥ | víśvam ā́prā antárikṣaṃ mahitvā́ satyám addhā́ nákir anyás tvā́vān ||
Thou hast become the measure of Earth’s being, the lord of the vast and of the high-heroic power. By thy greatness thou hast filled all the mid-world. Truly, in truth, none other is the equal of thee in power and protection.
त्वम् । भु॒वः॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । ऋ॒ष्वऽवी॑रस्य । बृ॒ह॒तः । पतिः॑ । भूः॒ । विश्व॑म् । आ । अ॒प्राः॒ । अ॒न्तरि॑क्षम् । म॒हि॒ऽत्वा । स॒त्यम् । अ॒द्धा । नकिः॑ । अ॒न्यः । त्वाऽवा॑न् ॥त्वम् । भुवः । प्रतिमानम् । पृथिव्याः । ऋष्ववीरस्य । बृहतः । पतिः । भूः । विश्वम् । आ । अप्राः । अन्तरिक्षम् । महित्वा । सत्यम् । अद्धा । नकिः । अन्यः । त्वावान् ॥tvam | bhuvaḥ | prati-mānam | pṛthivyāḥ | ṛṣva-vīrasya | bṛhataḥ | patiḥ | bhūḥ | viśvam | ā | aprāḥ | antarikṣam | mahi-tvā | satyam | addhā | nakiḥ | anyaḥ | tvāvān