Sukta 1.52
त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः । चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒: स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑: परि॒भूरे॒ष्या दिव॑म् ॥
tvám asyá pāré rájasaḥ vyòmanaḥ svabhū́ty-ojā́ aváse dhṛ́ṣan-manaḥ | cakṛ́ṣe bhū́miṃ prati-mā́nám ójasaḥ ’páḥ svàḥ paribhū́r eṣyā́ dívam ||
Thou art beyond this mid-region, wide in thy being, self-born in might, for our help, O daring-minded. Thou hast made Earth a measure of thy power; encompassing the waters and the luminous world, thou movest toward Heaven.
त्वम् । अ॒स्य । पा॒रे । रज॑सः । विऽओ॑मनः । स्वभू॑तिऽओजाः । अव॑से । धृ॒ष॒त्ऽम॒नः॒ । च॒कृ॒षे । भूमि॑म् । प्र॒ति॒ऽमान॑म् । ओज॑सः । अ॒पः । स्वरिति॑ स्वः॑ । प॒रि॒ऽभूः । ए॒षि॒ । आ । दिव॑म् ॥त्वम् । अस्य । पारे । रजसः । विओमनः । स्वभूतिओजाः । अवसे । धृषत्मनः । चकृषे । भूमिम् । प्रतिमानम् । ओजसः । अपः । स्वरिति स्वः । परिभूः । एषि । आ । दिवम् ॥tvam | asya | pāre | rajasaḥ | vi-omanaḥ | svabhūti-ojāḥ | avase | dhṛṣat-manaḥ | cakṛṣe | bhūmim | prati-mānam | ojasaḥ | apaḥ | [svar iti] svaḥ | pari-bhūḥ | eṣi | ā | divam