Sukta 1.52
यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः । अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑: । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥
yád innv índra pṛthivī́ dáśa-bhujir áhāni víśvā́ tátananta kṛ́ṣṭayaḥ | átrā́ha te maghavan víśrutaṃ sáho dyā́m ánu śávasā barháṇā bhuvat ||
When, O Indra, the Earth with ten arms stretched out all the days for the peoples, then indeed here, O bountiful one, thy far-heard power became a vast uplift by force, reaching up to heaven.
यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश॑ऽभुजिः । अहा॑नि । विश्वा॑ । त॒तन॑न्त । कृ॒ष्टयः॑ । अत्र॑ । अह॑ । ते॒ । म॒घ॒ऽव॒न् । विऽश्रु॑तम् । सहः॑ । द्याम् । अनु॑ । शव॑सा ब॒र्हणा॑ । भु॒व॒त् ॥यत् । इत् । नु । इन्द्र । पृथिवी । दशभुजिः । अहानि । विश्वा । ततनन्त । कृष्टयः । अत्र । अह । ते । मघवन् । विश्रुतम् । सहः । द्याम् । अनु । शवसा बर्हणा । भुवत् ॥yat | it | nu | indra | pṛthivī | daśa-bhujiḥ | ahāni | viśvā | tatananta | kṛṣṭayaḥ | atra | aha | te | magha-van | vi-śrutam | sahaḥ | dyām | anu | śavasā barhaṇā | bhuvat