Sukta 1.51
त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् । महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् । म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
tvaṃ kutsaṃ śuṣṇa-hatyeṣv āvithārandhayo ’tithi-gvāya śambaram | mahāntaṃ cid arbudam ni kramīḥ padā sanād eva dasyu-hatyāya jajñiṣe ||
You helped Kutsa in the slaying of Śuṣṇa; you made Śambara submit for Atithigva. Even mighty Arbuda you trod down with your foot. From of old you are born for the destruction of the dasyu—an eternal power for the victory of the Light.
त्वम् । कुत्स॑म् । शुष्ण॒ऽहत्ये॑षु । आ॒वि॒थ॒ । अर॑न्धयः । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । म॒हान्त॑म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒ऽहत्या॑य । ज॒ज्ञि॒षे॒ ॥त्वम् । कुत्सम् । शुष्णहत्येषु । आविथ । अरन्धयः । अतिथिग्वाय । शम्बरम् । महान्तम् । चित् । अर्बुदम् । नि । क्रमीः । पदा । सनात् । एव । दस्युहत्याय । जज्ञिषे ॥tvam | kutsam | śuṣṇa-hatyeṣu | āvitha | arandhayaḥ | atithi-gvāya | śambaram | mahāntam | cit | arbudam | ni | kramīḥ | padā | sanāt | eva | dasyu-hatyāya | jajñiṣe