Sukta 1.51
त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते । तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राध॑: सोमपी॒थाय॑ हर्षते । तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
tve viśvā taviṣī sadhryag hitā tava rādhaḥ soma-pīthāya harṣate | tava vajraś cikite bāhvor hitaḥ vṛśca śatror ava viśvāni vṛṣṇyā ||
In you all the forces are set in right poise; your plenitude exults for the drinking of Soma. Your thunderbolt is awake, placed in your arms; cut down from the enemy all the violent powers—let your manly energies prevail.
त्वे इति॑ । विश्वा॑ । तवि॑षी । स॒ध्र्य॑क् । हि॒ता । तव॑ । राधः॑ । सो॒म॒ऽपी॒थाय॑ । ह॒र्ष॒ते॒ । तव॑ । वज्रः॑ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः॑ । अव॑ । विश्वा॑नि । वृष्ण्या॑ ॥त्वे इति । विश्वा । तविषी । सध्र्यक् । हिता । तव । राधः । सोमपीथाय । हर्षते । तव । वज्रः । चिकिते । बाह्वोः । हितः । वृश्च । शत्रोः । अव । विश्वानि । वृष्ण्या ॥tve iti | viśvā | taviṣī | sadhryak | hitā | tava | rādhaḥ | soma-pīthāya | harṣate | tava | vajraḥ | cikite | bāhvoḥ | hitaḥ | vṛśca | śatroḥ | ava | viśvāni | vṛṣṇyā