Sukta 1.51
त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत । त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत । त्वं पिप्रो॑र्नृमण॒: प्रारु॑ज॒: पुर॒: प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
tvaṃ māyābhir apa māyino ’dhamaḥ svadhābhir ye adhi śuptāv ajuhvata | tvaṃ pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyu-hatyeṣv āvitha ||
By your powers you cast down the deceivers, the lowest who, by their self-will, call upon the Sleep. You broke open the strongholds of Pipru, O force of manhood; and you aided Ṛjiśvāna in the slaying of the dasyus—cutting a way through the obscurity.
त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत । त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्चा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥त्वम् । मायाभिः । अप । मायिनः । अधमः । स्वधाभिः । ये । अधि । शुप्तौ । अजुह्वत । त्वम् । पिप्रोः । नृमनः । प्र । अरुजः । पुरः । प्र । ऋजिश्चानम् । दस्युहत्येषु । आविथ ॥tvam | māyābhiḥ | apa | māyinaḥ | adhamaḥ | svadhābhiḥ | ye | adhi | śuptau | ajuhvata | tvam | piproḥ | nṛ-manaḥ | pra | arujaḥ | puraḥ | pra | ṛjiścānam | dasyu-hatyeṣu | āvitha