Sukta 1.51
त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु । वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒: पर्व॑ते॒ दानु॑म॒द्वसु॑ । वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
tvam apām api-dhānā avṛṇor apādhārayaḥ parvate dānu-mad vasu | vṛtraṃ yad indra śavasā avadhīr ahim ād it sūryaṃ divi ā arohayo dṛśe ||
You opened the coverings of the waters; you set the rich treasure upon the mountain. When by your force, O Indra, you slew Vṛtra, the Serpent, then you made the Sun ascend in heaven to be seen—so that vision might return.
त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥त्वम् । अपाम् । अपिधाना । अवृणोः । अप । अधारयः । पर्वते । दानुमत् । वसु । वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे ॥tvam | apām | api-dhānā | avṛṇoḥ | apa | adhāraya | parvate | dānu-mat | vasu | vṛtram | yat | indra | śavasā | avadhīḥ | ahim | āt | it | sūryam | divi | ā | arohayaḥ | dṛśe