Sukta 1.51
त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् । ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् । स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रि॑ग वावसा॒नस्य॑ न॒र्तय॑न् ॥
tvaṃ gotram aṅgirobhyo ’vṛṇor apo uta ātraye śata-dureṣu gātu-vit | sasena cid vi-madāya avaho vasv ājāv adriṃg vāvāsānasya nartayan ||
You opened the hidden Light (gotra) for the Angiras seers; and for Atri you released the waters, knowing the path through a hundred barriers. Even with Sāsena you brought the plenitude for Vimadā; in the battle you made the stone/obstacle yield, setting the possessor of wealth into the dance of victory.
त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् । स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥त्वम् । गोत्रम् । अङ्गिरःभ्यः । अवृणोः । अप । उत । अत्रये । शतदुरेषु । गातुवित् । ससेन । चित् । विमदाय । अवहः । वसु । आजौ । अद्रिम् । ववसानस्य । नर्तयन् ॥tvam | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | uta | atraye | śata-dureṣu | gātu-vit | sasena | cit | vi-madāya | avahaḥ | vasu | ājau | adrim | vavasānasya | nataryan