Sukta 1.51
अभीमवन्वन्त्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् । इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥
अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् । इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
abhīm avanvanta svabhiṣṭim ūtayo ’ntarikṣa-prāṃ taviṣībhir āvṛtam | indraṃ dakṣāsa ṛbhavo mada-cyutaṃ śata-kratuṃ javanī sūnṛtā ā aruhat ||
Toward him the helpful Powers press, seeking the true fulfilment; Indra is encompassed by his mights that fill the mid-world. The skilful Rbhus, masters of right formation, uplift Indra—unfallen from ecstasy, of a hundred effective wills; and swift Truth (sūnṛtā) climbs up to him.
अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒ऽअ॒भि॒ष्टिम् । ऊ॒तयः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राम् । तवि॑षीभिः । आऽवृ॑तम् । इन्द्र॑म् । दक्षा॑सः । ऋ॒भवः॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तुम् । जव॑नी । सू॒नृता॑ । आ । अ॒रु॒ह॒त् ॥अभि । ईम् । अवन्वन् । सुअभिष्टिम् । ऊतयः । अन्तरिक्षप्राम् । तविषीभिः । आवृतम् । इन्द्रम् । दक्षासः । ऋभवः । मदच्युतम् । शतक्रतुम् । जवनी । सूनृता । आ । अरुहत् ॥abhi | īm | avanvan | su-abhiṣṭim | ūtayaḥ | antarikṣa-prām | taviṣībhiḥ | āvṛtam | indram | dakṣāsaḥ | ṛbhavaḥ | mada-cyutam | śata-kratum | javanī | sūnṛtā | ā | aruhat