Sukta 1.51
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् । यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
abhí tyáṃ méṣaṃ puruhūtám ṛgmíyam índraṃ gī́rbhir madata vā́svo arṇavám | yásya dyā́vo ná vícaranti mā́nuṣā bhujé maṃhíṣṭham abhí vípram arcata ||
Set your delighting hymns toward that ram-like Force, the much-invoked, the song-worthy Indra—an ocean of plenitude; whom the human measures cannot traverse like the heavens: adore the seer, the most bounteous for our enjoyment.
अ॒भि । त्यम् । मे॒षम् । पु॒रु॒ऽहू॒तम् । ऋ॒ग्मिय॑म् । इन्द्र॑म् । गीः॒ऽभिः । म॒द॒त॒ । वस्वः॑ । अ॒र्ण॒वम् । यस्य॑ । द्यावः॑ । न । वि॒ऽचर॑न्ति । मानु॑षा । भु॒जे । मंहि॑ष्ठम् । अ॒भि । विप्र॑म् । अ॒र्च॒त॒ ॥अभि । त्यम् । मेषम् । पुरुहूतम् । ऋग्मियम् । इन्द्रम् । गीःभिः । मदत । वस्वः । अर्णवम् । यस्य । द्यावः । न । विचरन्ति । मानुषा । भुजे । मंहिष्ठम् । अभि । विप्रम् । अर्चत ॥abhi | tyam | meṣam | puru-hūtam | ṛgmiyam | indram | gīḥ-bhiḥ | madata | vasvaḥ | arṇavam | yasya | dyāvaḥ | na | vi-caranti | mānuṣā | bhuje | maṃhiṣṭham | abhi | vipram | arcata