Sukta 1.51
अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते । मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या ॥
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते । मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
ádadā arbhā́ṃ mahaté vacasyáve kakṣī́vate vṛcayā́mindra sunvaté | ménābhavo vṛṣaṇaśvásya sukrato víśvet tā́ te sávanesu prá-vācyā ||
Thou gavest the little (child/seed) to the great singer Kakṣīvat who presses Soma, O Indra of luminous will. Thou becamest his inspirer and wise counsel, O strong-minded; therefore all these thy deeds are to be proclaimed in every pressing of the Soma.
अद॑दाः । अर्भा॑म् । म॒ह॒ते । व॒च॒स्यवे॑ । क॒क्षीव॑ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते । मेना॑ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ ॥अददाः । अर्भाम् । महते । वचस्यवे । कक्षीवते । वृचयाम् । इन्द्र । सुन्वते । मेना । अभवः । वृषणश्वस्य । सुक्रतो इति सुक्रतो । विश्वा । इत् । ता । ते । सवनेषु । प्रवाच्या ॥adadāḥ | arbhām | mahate | vacasyave | kakṣīvate | vṛcayām | indra | sunvate | menā | abhavaḥ | vṛṣaṇaśvasya | sukrato itisu-krato | viśvā | it | tā | te | savaneṣu | pra-vācyā