Sukta 1.51
मन्दिष्ट यदुशने काव्ये सचाँ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति । उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति । उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुर॑: ॥
mandiṣṭa yad uśane kāvye sacā indro vaṅkū vaṅku-tarā adhi tiṣṭhati | ugro yayim nir apaḥ srotasā asṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ ||
Most gladdening, when he moves with Uśanā Kāvya, Indra stands upon the winding height. The fierce one released the waters in a streaming current; he shattered apart Śuṣṇa’s hardened strongholds and drove his forts asunder.
मन्दि॑ष्ट॑ । यत् । उ॒शने॑ । का॒व्ये । सचा॑ । इन्द्रः॑ । व॒ङ्कू इति॑ । व॒ङ्कु॒ऽतरा । अधि॑ । ति॒ष्ठ॒ति॒ । उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत॑सा । अ॒सृ॒ज॒त् । वि । शुष्ण॑स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः॑ ॥मन्दिष्ट । यत् । उशने । काव्ये । सचा । इन्द्रः । वङ्कू इति । वङ्कुतरा । अधि । तिष्ठति । उग्रः । ययिम् । निः । अपः । स्रोतसा । असृजत् । वि । शुष्णस्य । दृंहिताः । ऐरयत् । पुरः ॥mandiṣṭa | yat | uśane | kāvye | sacā | indraḥ | vaṅkūiti | vaṅku-tarā | adhi | tiṣṭhat i | ugraḥ | yayim | niḥ | apaḥ | srotasā | asṛjat | vi | śuṣṇasya | dṛṃhitāḥ | airayat | puraḥ