Sukta 1.51
तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः । आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शव॑: । आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रव॑: ॥
takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ | ā tvā vātasya nṛmaṇo mano-yuja ā pūryamāṇam avahann abhi śravaḥ ||
When Uśanā fashioned for you a force by force, your energy with its greatness presses apart the two worlds. Then the Wind’s yoked-to-thought powers bore you forward—filling you more and more—toward the plenitude of inspired hearing and fame.
तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा । सहः॑ । वि । रोद॑सी॒ इति॑ । म॒ज्मना॑ । बा॒ध॒ते॒ । शवः॑ । आ । त्वा॒ । वात॑स्य । नृ॒ऽम॒नः॒ । म॒नः॒ऽयुजः॑ । आ । पूर्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ ॥तक्षत् । यत् । ते । उशना । सहसा । सहः । वि । रोदसी इति । मज्मना । बाधते । शवः । आ । त्वा । वातस्य । नृमनः । मनःयुजः । आ । पूर्यमाणम् । अवहन् । अभि । श्रवः ॥takṣat | yat | te | uśanā | sahasā | sahaḥ | vi | rodasī iti | majmanā | bādhate | śavaḥ | ā | tvā | vātasya | nṛ-manaḥ | manaḥ-yujaḥ | ā | pūryamāṇam | avahan | abhi | śravaḥ