Sukta 1.51
अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः । वृद्धस्य चिद्वर्धतो द्यामिनक्षतः स्तवानो वम्रो वि जघान संदिहः ॥
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑: श्न॒थय॒न्नना॑भुवः । वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒: स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिह॑: ॥
anu-vratāya randhayann apa-vratān ābhūbhir indraḥ śnathayann anābhuvaḥ | vṛddhasya cid vardhato dyām inakṣataḥ stavāno vamro vi jaghāna sam-dihaḥ ||
Making the powers conform to the right law, he subdues those who turn away from the law; by his onsets Indra shatters the ineffective. Even as he grows vast and increases, touching the heaven, being praised, the strong one strikes apart the compacted mass of obstruction.
अनु॑ऽव्रताय । र॒न्धय॑न् । अप॑ऽव्रतान् । आ॒ऽभूभिः॑ । इन्द्रः॑ । श्न॒थय॑न् । अना॑भुवः । वृ॒द्धस्य॑ । चि॒त् । वर्ध॑तः । द्याम् । इन॑क्षतः । स्तवा॑नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्ऽदिहः॑ ॥अनुव्रताय । रन्धयन् । अपव्रतान् । आभूभिः । इन्द्रः । श्नथयन् । अनाभुवः । वृद्धस्य । चित् । वर्धतः । द्याम् । इनक्षतः । स्तवानः । वम्रः । वि । जघान । सम्दिहः ॥anu-vratāya | randhayan | apa-vratān | ābhūbhiḥ | indraḥ | śnathayan | anābhuvaḥ | vṛddhasya | cit | vardhataḥ | dyām | inakṣataḥ | stavānaḥ | vamraḥ | vi | jaghāna | sam-dihaḥ