Sukta 1.50
उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
úd agād ayám ādityó víśvena sáhasā sahá | dviṣántaṃ máhyaṃ randháyan mó áhaṃ dviṣaté radham ||
Up has risen this Āditya with all his force together; may he subdue for me the hostile power—may I not be given over to the hater’s will.
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह । द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥उत् । अगात् । अयम् । आदित्यः । विश्वेन । सहसा । सह । द्विषन्तम् । मह्यम् । रन्धयन् । मो इति । अहम् । द्विषते । रधम् ॥ut | agāt | ayam | ādityaḥ | viśvena | sahasā | saha | dviṣantam | mahyam | randhayan | mo iti | aham | dviṣate | radham