Sukta 1.5
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो । त्वां वर्धन्तु नो गिरः ॥
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो । त्वां व॑र्धन्तु नो॒ गिर॑: ॥
tvā́m stomā́ avīvṛdhan tvā́m ukthā́ śatakrato | tvā́m vardhantu no gíraḥ ||
O Indra, of a hundred powers of effective action, our hymns of affirmation have increased thee; the inspired utterances have increased thee. May our manifold words of truth further build thee up within us.
त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतक्रतो । त्वाम् । वर्धन्तु । नः । गिरः ॥tvām | stomāḥ | avīvṛdhan | tvām | ukthā | śatakrato itiśata-krato | tvām | vardhantu | naḥ | giraḥ