Sukta 1.48
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः । आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥
उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः । आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
uṣa ā́ bhāhi bhānúnā candréṇa duhitar divaḥ | ā́vahantī bhū́ry asmábhyaṃ sáubhagaṃ vyucchántī divíṣṭiṣu ||
O Dawn, shine upon us with your radiant beam and your clear brightness, O Daughter of Heaven; bringing for us abundant felicity, rise wide into manifestation in the divine strivings.
उषः॑ । आ । भा॒हि॒ । भा॒नुना॑ । च॒न्द्रेण॑ । दु॒हि॒तः॒ । दि॒वः॒ । आ॒ऽवह॑न्ती । भूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । वि॒ऽउ॒च्छन्ती॑ । दिवि॑ष्टिषु ॥उषः । आ । भाहि । भानुना । चन्द्रेण । दुहितः । दिवः । आवहन्ती । भूरि । अस्मभ्यम् । सौभगम् । विउच्छन्ती । दिविष्टिषु ॥uṣaḥ | ā | bhāhi | bhānunā | candreṇa | duhitaḥ | divaḥ | āvahantī | bhūri | asmabhyam | saubhagam | vi-ucchantī | diviṣṭiṣu