Sukta 1.48
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी । अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिध॑: ॥
víśvam asyā nanāma cákṣase jágaj jyótiṣkṛṇoti sū́narī | ápa dvéṣo maghónī duhitā́ divá uṣā́ ucchád ápa srídhaḥ ||
All the world bends itself to her seeing; the skilful Dawn makes the moving creation a work of light. The bountiful Daughter of Heaven rises, and she drives away hatred and the crooked hostile forces from our way.
विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ । अप॑ । द्वेषः॑ । म॒घोनी॑ । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥विश्वम् । अस्याः । ननाम । चक्षसे । जगत् । ज्योतिः । कृणोति । सूनरी । अप । द्वेषः । मघोनी । दिवः । उषाः । उच्छत् । अप । स्रिधः ॥viśvam | asyāḥ | nanāma | cakṣase | jagat | jyotiḥ | kṛṇoti | sūnarī | apa | dveṣaḥ | maghonī | divaḥ | uṣāḥ | ucchat | apa | sridhaḥ