Sukta 1.48
विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि । सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
víśvasya hí prā́ṇanaṃ jī́vanaṃ tvé ví yád ucchási sūnari | sā́ no ráthena bṛhatā́ vibhāvari śrudhí citrāmaghe hávam ||
For in you is the breathing and the living of all when you rise forth, O skilful Dawn. Therefore, O wide-shining one with your vast chariot, hear our call, O she of luminous riches.
विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ । सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । श्रु॒धि । चि॒त्र॒ऽम॒घे॒ । हव॑म् ॥विश्वस्य । हि । प्राणनम् । जीवनम् । त्वे इति । वि । यत् । उच्छसि । सूनरि । सा । नः । रथेन । बृहता । विभावरि । श्रुधि । चित्रमघे । हवम् ॥viśvasya | hi | prāṇanam | jīvanam | tve iti | vi | yat | ucchasi | sūnari | sā | naḥ | rathena | bṛhatā | vibhāvari | śrudhi | citra-maghe | havam