Sukta 1.48
एषायुक्त परावतः सूर्यस्योदयनादधि । शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥
ए॒षायु॑क्त परा॒वत॒: सूर्य॑स्यो॒दय॑ना॒दधि॑ । श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
eṣā́yukta parāvátaḥ sū́ryasyotayánād ádhi | śatáṃ ráthebhiḥ subhágā́ uṣā́ iyáṃ ví yāty abhí mā́nuṣān ||
She has yoked her movements from the far beyond, from the Sun’s rising-place; this auspicious Dawn comes forth with a hundred chariots of light and advances toward human beings, to awaken the mortal into the solar truth.
ए॒षा । अ॒यु॒क्त॒ । प॒रा॒ऽवतः॒ । सूर्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ । श॒तम् । रथे॑भिः । सु॒ऽभगा॑ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु॑षान् ॥एषा । अयुक्त । परावतः । सूर्यस्य । उत्अयनात् । अधि । शतम् । रथेभिः । सुभगा । उषाः । इयम् । वि । याति । अभि । मानुषान् ॥eṣā | ayukta | parāvataḥ | sūryasya | ut-ayanāt | adhi | śatam | rathebhiḥ | su-bhagā | uṣāḥ | iyam | vi | yāti | abhi | mānuṣān