Sukta 1.48
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः । अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रय॑: । अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
uṣo yé té prá yā́meṣu yuñjáte máno dānā́ya sū́rayaḥ | atrā́ha tát kaṇvá eṣā́ṃ kaṇvá-tamo nā́ma gṛṇāti nṛṇā́m ||
O Dawn, those seers who in your forward courses yoke their mind toward giving—here indeed Kaṇva, the most Kaṇva among them, chants the name of these men: for the soul grows by offering in the light.
उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ । अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥उषः । ये । ते । प्र । यामेषु । युञ्जते । मनः । दानाय । सूरयः । अत्र । अह । तत् । कण्वः । एषाम् । कण्वतमः । नाम । गृणाति । नृणाम् ॥uṣaḥ | ye | te | pra | yāmeṣu | yuñjate | manaḥ | dānāya | sūrayaḥ | atra | aha | tat | kaṇvaḥ | eṣām | kaṇva-tamaḥ | nāma | gṛṇāti | nṛṇām