Sukta 1.48
उवासोषा उच्छाच्च नु देवी जीरा रथानाम् । ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् । ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यव॑: ॥
uvā́śoṣā́ ucchā́c ca nu devī jīrā́ ráthānām | yé asyā ācáraṇeṣu dadhiré samudré na śravasyávaḥ ||
Uṣas has dwelt among us and now the goddess has dawned forth, swift in her chariots. Those who have held fast to her goings—like seekers at the sea—become lovers of the radiant fame of the soul.
उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् । ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥उवास । उषाः । उच्छात् । च । नु । देवी । जीरा । रथानाम् । ये । अस्याः । आचरणेषु । दध्रिरे । समुद्रे । न । श्रवस्यवः ॥uvāsa | uṣāḥ | ucchāt | ca | nu | devī | jīrā | rathānām | ye | asyāḥ | ācaraṇeṣu | dadhrire | samudre | na | śravasyavaḥ