Sukta 1.48
उषो यदद्य भानुना वि द्वारावृणवो दिवः । प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः । प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिष॑: ॥
uṣo yád adyá bhānúnā ví dvārā vṛṇávo diváḥ | prá no yacchatād avṛkáṃ pṛthú chardíḥ prá devi gómātīr íṣaḥ ||
O Dawn, when today with your radiance you open wide the doors of heaven, then grant to us a vast and harmless shelter; and, O Goddess, send forth the impulses that are rich in the rays of Light (cows of illumination).
उषः॑ । यत् । अ॒द्य । भा॒नुना॑ । वि । द्वारौ॑ । ऋ॒णवः॑ । दि॒वः । प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गोऽम॑तीः । इषः॑ ॥उषः । यत् । अद्य । भानुना । वि । द्वारौ । ऋणवः । दिवः । प्र । नः । यच्छतात् । अवृकम् । पृथु । छर्दिः । प्र । देवि । गोमतीः । इषः ॥uṣaḥ | yat | adya | bhānunā | vi | dvārau | ṛṇavaḥ | divaḥ | pra | naḥ | yacchatāt | avṛkam | pṛthu | chardiḥ | pra | devi | go--matīḥ | iṣaḥ