Sukta 1.48
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि । सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥
ये चि॒द्धि त्वामृष॑य॒: पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि । सा न॒: स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोष॑: शु॒क्रेण॑ शो॒चिषा॑ ॥
yé ciddhí tvām ṛ́ṣayaḥ pū́rva ūtáye juhūré 'váse mahí | sā́ naḥ stómāṃ abhí gṛṇīhi rā́dhasóṣaḥ śukréṇa śóciṣā ||
Even the seers of old invoked you for help and for your mighty protection; therefore accept and affirm our hymns with your giving power, O Dawn, with your pure and flaming radiance.
ये । चि॒त् । हि । त्वाम् । ऋष॑यः । पूर्वे॑ । ऊ॒तये॑ । जु॒हू॒रे । अव॑से । म॒हि॒ । सा । नः॒ । स्तोमा॑न् । अ॒भि । गृ॒णी॒हि॒ । राध॑सा । उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥ये । चित् । हि । त्वाम् । ऋषयः । पूर्वे । ऊतये । जुहूरे । अवसे । महि । सा । नः । स्तोमान् । अभि । गृणीहि । राधसा । उषः । शुक्रेण । शोचिषा ॥ye | cit | hi | tvām | ṛṣayaḥ | pūrve | ūtaye | juhūre | avase | mahi | sā | naḥ | stomān | abhi | gṛṇīhi | rādhasā | uṣaḥ | śukreṇa | śociṣā