Sukta 1.48
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा । सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥
सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा । सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
sáṃ no rāyā bṛhatā viśvápeśasā mimikṣvā sámiḷābhir ā́ | sáṃ dyumnéna viśvatúro uṣo máhi sáṃ vājáir vājinī-vati ||
Unite us with a vast plenitude of being, rich in all forms; blend it into us with the powers of Ila. O mighty Dawn who overcomes from every side, unite us with luminous splendour and with the plenitudes of force, O holder of the swift energies.
सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वऽपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ । सम् । द्यु॒म्नेन॑ । वि॒श्व॒ऽतुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒ऽव॒ति॒ ॥सम् । नः । राया । बृहता । विश्वपेशसा । मिमिक्ष्व । सम् । इळाभिः । आ । सम् । द्युम्नेन । विश्वतुरा । उषः । महि । सम् । वाजैः । वाजिनीवति ॥sam | naḥ | rāyā | bṛhatā | viśva-peśasā | mimikṣva | sam | iḷābhiḥ | ā | sam | dyumnena | viśva-turā | uṣaḥ | mahi | sam | vājaiḥ | vājinī-vati