Sukta 1.48
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥
यस्या॒ रुश॑न्तो अ॒र्चय॒: प्रति॑ भ॒द्रा अदृ॑क्षत । सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
yásyā ruśánto arcáyaḥ práti bhadrā́ adr̥kṣata | sā́ no rayíṃ viśvá-vāraṃ supeśásam uṣā́ dadātu súgmyam ||
She toward whom the shining flames have looked out in response, benign and auspicious—may that Dawn give us a rayi, desirable in all ways, beautifully formed, and fit for a straight and victorious going.
यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत । सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥यस्याः । रुशन्तः । अर्चयः । प्रति । भद्राः । अदृक्षत । सा । नः । रयिम् । विश्ववारम् । सुपेशसम् । उषाः । ददातु । सुग्म्यम् ॥yasyāḥ | ruśantaḥ | arcayaḥ | prati | bhadrāḥ | adṛkṣata | sā | naḥ | rayim | v iśva-vāram | su-peśasam | uṣāḥ | dadātu | sugmyam