Sukta 1.48
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् । सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥
विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
víśvān devā́ṃ ā́ vaha sómapītaye 'ntárikṣād uṣas tvám | sā́smā́su dhā gómad áśvāvad ukthyám uṣo vā́jaṃ suvī́ryam ||
Bring all the gods for the drinking of Soma from the mid-world, O Dawn; and place in us a wealth that is full of rays and powers—rich in the light-cows and the force-horses—O Dawn, a vāja that is hymnable, a victorious hero-strength.
विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑ऽपीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् । सा । अ॒स्मासु॑ । घाः॒ । गोऽम॑त् । अश्व॑ऽवत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒ऽवीर्य॑म् ॥विश्वान् । देवान् । आ । वह । सोमपीतये । अन्तरिक्षात् । उषः । त्वम् । सा । अस्मासु । घाः । गोमत् । अश्ववत् । उक्थ्यम् । उषः । वाजम् । सुवीर्यम् ॥viśvān | devān | ā | vaha | soma-pītaye | antarikṣāt | uṣaḥ | tvam | sā | asmāsu | ghāḥ | go--mat | aśva-vat | ukthyam | uṣaḥ | vājam | su-vīryam