Sukta 1.48
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
uṣo vā́jaṃ hí vaṃsva yáś citró mā́nuṣe jáne | ténā vaha sukṛ́to adhvarā́ṃ úpa yé tvā gṛṇánti váhnayaḥ ||
O Dawn, win for us that plenitude of force which is bright among human beings; with it bring near the well-done offerings and the right-works of sacrifice—those who sing you are the bearers of the flame.
उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ । तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥उषः । वाजम् । हि । वंस्व । यः । चित्रः । मानुषे । जने । तेन । आ । वह । सुकृतः । अध्वरान् । उप । ये । त्वा । गृणन्ति । वह्नयः ॥uṣaḥ | vājam | hi | vaṃsva | yaḥ | citraḥ | mānuṣe | jane | tena | ā | vaha | su-kṛtaḥ | adhvarān | upa | ye | tvā | gṛṇanti | vahnayaḥ