Sukta 1.47
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे । शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे । शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
ukthébhiḥ arvā́g ávase purūvásū arkáiś ca ní hvayāmahe | śáśvat kaṇvā́nāṃ sádasi priyé hí kaṃ sómaṃ papáthur aśvinā ||
With hymns we call you hither for help, O you of abundant riches, and with songs of flame. For in the beloved session of the Kaṇvas you have ever drunk the Soma—therefore come again to our inner assembly.
उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ । शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥उक्थेभिः । अर्वाक् । अवसे । पुरुवसू इति पुरुवसू । अर्कैः । च । नि । ह्वयामहे । शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥ukthebhiḥ | arvāk | avase | puruvasūitipuru-vasū | arkaiḥ | ca | ni | hvayāmahe | śaśvat | kaṇvānām | sadasi | priye | hi | kam | somam | papathuḥ | aśvinā