Sukta 1.46
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् ॥
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः । स्तु॒षे वा॑मश्विना बृ॒हत् ॥
eṣó uṣā́ apū́rvyā vy úcchati priyā́ diváḥ | stuṣé vām aśvinā bṛhát ||
This Dawn, ever new in her ancientness, breaks open wide—beloved of Heaven. I utter the vast praise to you, O Aśvins, for with her coming the greater light in us begins to awaken.
ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः । स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥एषो इति । उषाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वाम् । अश्विना । बृहत् ॥eṣo iti | uṣāḥ | apūrvyā | vi | ucchati | priyā | divaḥ | stuṣe | vām | aśvinā | bṛhat