Sukta 1.45
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥
आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑: । बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥
ā́ tvā viprā́ acucyavúḥ sutásomā abhí práyaḥ | bṛhád bhā́ bibhrató havír agne mártāya dāśúṣe ||
Toward you the seers have impelled themselves, having pressed the Soma, bearing the offering and a wide light. O Agni, for the mortal who gives, become the shining mediator: let the vast radiance be held in the act of offering.
आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ । बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥आ । त्वा । विप्राः । अचुच्यवुः । सुतसोमाः । अभि । प्रयः । बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥ā | tvā | viprāḥ | acucyavuḥ | suta-somāḥ | abhi | prayaḥ | bṛhat | bhāḥ | bibhrataḥ | haviḥ | agne | martāya | dāśuṣe