Sukta 1.45
महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥
महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत । राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥
mahíkerava ūtáye priyámedhā ahūṣata | rā́jantam adhvarā́ṇām agníṃ śukréṇa śóciṣā ||
The great-voiced Priyamedhas called him for help—Agni, the king of the offerings, shining with a clear and radiant flame. May that sovereign Fire rule our inner rite and lead it to its luminous perfection.
महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ । राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥महिकेरवः । ऊतये । प्रियमेधाः । अहूषत । राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा ॥mahi-keravaḥ | ūtaye | priya-medhāḥ | ahūṣata | rājantam | adhvarāṇām | agnim | śukreṇa | śociṣā