Sukta 1.45
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
śruṣṭī́vāno hí dāśúṣe devā́ agne vícetasaḥ | tā́n rohidáśva girvaṇas tráyas triṃśatám ā́ vaha ||
For the gods, O Agni, are eager to listen for the giver; they are powers of discerning consciousness. Bring them here—O singer-praised one with ruddy horses—bring the thrice-eleven (the full company of the gods) into our offering-field.
श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विचे॑तसः । तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥श्रुष्टीवानः । हि । दाशुषे । देवाः । अग्ने । विचेतसः । तान् । रोहित्अश्व । गिर्वणः । त्रयःत्रिंशतम् । आ । वह ॥śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ | tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṃśatam | ā | vaha