Sukta 1.44
पतिर्ह्यध्वराणामग्ने दूतो विशामसि । उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥
पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ । उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृश॑: ॥
pátir hí adhvarā́ṇām ágne dū́to viśā́m asi | uṣar-búdha ā́ vaha sóma-pītaye devā́m̐ adyá svàr-dṛśaḥ ||
For you, O Agni, are lord of the paths of sacrifice, the messenger of the peoples. O awakener with the dawn, bring the gods today for the drinking of Soma—those who see the supramental Light (svàr).
पतिः॑ । हि । अ॒ध्व॒राणा॑म् । अग्ने॑ । दू॒तः । वि॒शाम् । असि॑ । उ॒षः॒ऽबुधः॑ । आ । व॒ह॒ । सोम॑ऽपीतये । दे॒वान् । अ॒द्य । स्वः॒ऽदृशः॑ ॥पतिः । हि । अध्वराणाम् । अग्ने । दूतः । विशाम् । असि । उषःबुधः । आ । वह । सोमपीतये । देवान् । अद्य । स्वःदृशः ॥patiḥ | hi | adhvarāṇām | agne | dūtaḥ | viśām | asi | uṣaḥ-budhaḥ | ā | vaha | soma-pītaye | devān | adya | svaḥ-dṛśaḥ