Sukta 1.44
सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः । कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑: । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥
savitā́ram uṣásam aśvínā bhágam agním vyùṣṭiṣu kṣápaḥ | kaṇvā́sas tvā sutá-somāsa indhate havya-vā́haṃ svadhvara ||
In the dawnings and the nights, (they kindle) Agni together with Savitar, with Ushas, with the Ashvins, with Bhaga—those Kaṇvas who have pressed Soma kindle you, O carrier of offerings, O master of the right-ordered rite.
स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥सवितारम् । उषसम् । अश्विना । भगम् । अग्निम् । विउष्टिषु । क्षपः । कण्वासः । त्वा । सुतसोमासः । इन्धते । हव्यवाहम् । सुअध्वर ॥savitāram | uṣasam | aśvinā | bhagam | agnim | vi-uṣṭiṣu | kṣapaḥ | kaṇvāsaḥ | tvā | suta-somāsaḥ | indhate | havya-vāham | su-adhvara